|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.201. अध्यायः 201
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मनुबृहस्पतिसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
मनुरुवाच। 12-201-0x(6047)(72983)
यदिन्द्रियैस्तूपगतैः पुरस्ता
त्प्राप्तान्गुणान्संस्मरते चिराय।
तेष्विन्द्रियेषूपहतेषु पश्चा
त्स बुद्धिरूपः परमः स्वभावः॥ 12-201-1(72984)
य इन्द्रियार्थान्युगपत्समन्ता
न्नावेक्षते कृत्स्नशस्तुल्यकालम्।
यथाक्रमं संचरते स विद्वां
स्तस्मात्स एकः परमः शरीरी॥ 12-201-2(72985)
रजस्तमः सत्वमथो तृतीयं
गच्छत्यसौ ज्ञानगुणान्विरूपान्।
`न तैर्निबद्धः स तु बध्नाति विश्वं
न चानुयातीहागुणान्परात्मा।'
तथेन्द्रियाण्याविशते शरीरी
हुताशनं वायुरिवेन्धनस्थम्॥ 12-201-3(72986)
न चक्षुषा पश्यति रूपमात्मनो
न पश्यति स्पर्शनमिन्द्रियेन्द्रियम्।
न श्रोत्रलिङ्गं श्रवणेन दर्शनं
तथा कृतं पश्यति तद्विनश्यति॥ 12-201-4(72987)
श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना।
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति॥ 12-201-5(72988)
यथा हिमवतः पार्श्वे पृष्ठं चन्द्रमसो यथा।
न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता॥ 12-201-6(72989)
तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ।
अदृष्टपूर्वश्चक्षुर्म्यां न चासौ नास्ति तावता॥ 12-201-7(72990)
पश्यन्नपि यथा लक्ष्म जनः सोमेन विन्दति।
एवमस्ति न चोत्पन्नं न च तन्न परायणम्॥ 12-201-8(72991)
रूपवन्तमरूपत्वादुदयास्तमने बुधाः।
धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम्॥ 12-201-9(72992)
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः।
प्रत्यासन्नं निषीदन्ति ज्ञेयं ज्ञानाभिसंहितम्॥ 12-201-10(72993)
न हि स्वल्वनुपायेन कश्चिदर्थोऽभिसिद्ध्यति।
सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः॥ 12-201-11(72994)
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा।
गजानां च गजैरेव ज्ञेयं ज्ञानेन गृह्यते॥ 12-201-12(72995)
अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम्।
तद्वन्मूर्तिषु मूर्तिस्थं ज्ञेयं ज्ञानेन पश्यति॥ 12-201-13(72996)
नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि।
तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति॥ 12-201-14(72997)
यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते।
न च नाशोऽस्य भवति तथा विद्धि शरीरिणम्॥ 12-201-15(72998)
क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते।
तद्वन्मूर्तिविमुक्तोऽसौ शरीरी नोपलभ्यते॥ 12-201-16(72999)
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः।
तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः॥ 12-201-17(73000)
जन्म बुद्धिः क्षयश्चास्य प्रत्यक्षेणोपलभ्यते।
सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः॥ 12-201-18(73001)
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते।
चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान्॥ 12-201-19(73002)
नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः।
विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम्॥ 12-201-20(73003)
यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते।
तद्वच्छरीरसंयुक्तं ज्ञानं तदुपलभ्यते॥ 12-201-21(73004)
यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते।
तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते॥ 12-201-22(73005)
यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः।
तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः॥ ॥ 12-201-23(73006)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाधिकद्विशततमोऽध्यायः॥ 201॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-201-4 स्पर्शनमिन्द्रियाणामिति ध. पाठः॥ 12-201-8 एवमस्ति नवेत्यन्यो न वेत्ति न परायणम् इति ध. पाठः॥ 12-201-13 ज्ञानेन गृह्यते इति ट.ड.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|